|
|
|
Karthaveeryarjuna Mala Mantra – श्री कार्तवीर्यार्जुन मालामन्त्रः
अस्य श्रीकार्तवीर्यार्जुन मालामन्त्रस्य दत्तात्रेय ऋषिः गायत्री छन्दः श्रीकार्तवीर्यार्जुनो देवता, दत्तात्रेय प्रियतमाय हृत्, माहिष्मतीनाथाय शिरः, रेवानदीजलक्रीडातृप्ताय शिखा, हैहयाधिपतये कवचं, सहस्रबाहवे अस्त्रं, कार्तवीर्यार्जुन प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् –
दोर्दण्डेषु सहस्रसम्मिततरेष्वेतेष्वजस्रं लसत्
कोदण्डैश्च शरैरुदग्रनिशितैरुद्यद्विवस्वत्प्रभः ।
ब्रह्माण्डं परिपूरयन् स्वनिनदैर्गण्डद्वयान्दोलित
द्योतत्कुण्डलमण्डितो विजयते श्रीकार्तवीर्यो विभुः ॥
अथ मालामन्त्रः –
ओं नमो भगवते कार्तवीर्यार्जुनाय हैहयाधिपतये सहस्रकवचाय सहस्रकरसदृशाय सर्वदुष्टान्तकाय सर्वशिष्टेष्टाय । सर्वत्रोदधेरागन्तुकान् अस्मद्वसुलुम्पकान् चोरसमूहान् स्वकरसहस्रैः निवारय निवारय रोधय रोधय पाशसहस्रैः बन्धय बन्धय अङ्कुशसहस्रैराकुण्डयाकुण्डय स्वचापोद्गतैर्बाणसहस्रैः भिन्धि भिन्धि स्वहस्तोद्गत खड्गसहस्रैश्छिन्दि छिन्दि स्वहस्तोद्गतमुसलसहस्रैर्मर्दय मर्दय स्वशङ्खोद्गतनादसहस्रैर्भीषय भीषय स्वहस्तोद्गतचक्रसहस्रैः कृन्तय कृन्तय त्रासय त्रासय गर्जय गर्जय आकर्षयाकर्षय मोहय मोहय मारय मारय उन्मादयोन्मादय तापय तापय विदारय विदारय स्तम्भय स्तम्भय जृम्भय जृम्भय वारय वारय वशीकुरु वशीकुरु उच्चाटयोच्चाटय विनाशय विनाशय दत्तात्रेय श्रीपादप्रियतम कार्तवीर्यार्जुन सर्वत्रोदधेरागन्तुकान् अस्मद्वसुलुम्पकान् चोरसमूहान् समग्रमुन्मूलयोन्मूलय हुं फट् स्वाहा ॥
अनेन मन्त्रराजेन सर्वकामांश्च साधयेत् ।
मालामन्त्रजपाच्चोरान् मारींश्चैव विशेषतः ।
क्षपयेत् क्षोभयेच्चैवोच्चाटयेन्मारयेत्तथा ॥
वशयेत्तत्क्षणादेव त्रैलोक्यमपि मन्त्रवित् ॥
इति श्री कार्तवीर्यार्जुन माला मन्त्रः ।

|


|